~गुरुप्रसाद कोइराला~
सामान्यतया लोके सौन्दर्यस्य चर्चा सर्वेषु विषयेषु दरीदृश्यते । परं साहित्यसंसारे काव्यस्य कमनीयत्वविस्तारकतत्त्वरूपेण शब्दोद्रयं प्रयुज्यते । सहृदयजनमनाह्लादजनकत्वं काव्यत्वमिति काव्यस्य प्रयोजनपरकार्थो बुध्यते । अर्थात् काव्यात् तत्सामीप्यजनमनोरञ्जनं भवतीति फलितोद्रर्थः । जनस्यान्तस्करणस्य रञ्जनार्थं तु सौन्दर्यमेव भवितुमर्हति । तस्मात् काव्ये सौन्दर्यमपरिहार्यम् । अतोद्रत्र काव्यप्रयोजनप्रवद्र्धकं कीदृशं सौन्दर्यमिति विषये किञ्चित् परिचर्चा क्रियते ।
प्रियत्वं मनोज्ञत्वं लावण्यत्वं लालित्यञ्चेमे शब्दाः नितरां सौन्दर्यापरपर्यायभूताः चमत्कारजनकत्वञ्चाभिव्यञ्जयन्ति । अद्यत्वे सौन्दर्यस्य चर्चा सर्वत्रैव श्रूयते । आलोचकैः सौन्दर्यशास्त्रमधिकृत्यानेके विचाराः प्रस्तुतीकृताः । अतोद्रस्य स्वरूपं किमिति विवेचनीयमेव । केचन वदन्ति – सौन्दर्यं वस्तुगतम्, अपरे च कथयन्ति – सौन्दर्यं रचनागतम्, आत्मगतमपि तदिति प्रतिपादयन्तोद्रन्ये तस्य याथाथ्र्यमुपस्थापयितुमशक्ता एव दरीदृश्यन्ते । परञ्च न तावत् सौन्दर्यं वस्तुगतम् । एकस्यैव वस्तुनो व्यक्तिभेदेन सौन्दर्यमिव असौन्दर्यस्यापि वक्तुं शक्यत्वात् । एकमेव रमणीयं वस्तु व्यक्तिविशेषं रमयति चेत् अपरत्र व्यक्त्यन्तरमुद्वेजयति ।
देदीप्यमानस्वर्णाभाकमनीयकान्तिरनुपमलावण्या काप्यनिर्वाच्यसौन्दर्या योषित् आनन्दयति । विलासी व्यक्तिविशेषं चेत्तर्हि सा एव विरक्तस्य कृते कष्टप्रदा, दुःखप्रदा, अरमणीया, सौन्दर्यविहीना, कथं न स्यात् । एवमेव सांसारिक निखिलवस्तूनि न सर्वात्मना स्वसौन्दर्येण सर्वान्न तर्पयन्ति । वस्तुतस्तु सौन्दर्यस्य वस्तुगतत्वं वक्तुमशक्यम् । सांसारिकसर्ववस्तूनां नित्यनिरन्तरं परिवर्तनशीलतया यद् वस्त्वद्य सुन्दरं तदेव श्वोद्रसुन्दरमपि भवितुमर्हति । एकमनुपमलावण्यमपि वार्धक्ये किं तरलयितुं क्षमं कस्यापि मानसम् ? तस्मान्न सौन्दर्यं वस्तुगतम् किन्तु वस्तुनि यत् प्रतीयते सौन्दर्यं तत्तु केवलमाभासमात्रम् । तदर्थं विहितेद्रपि नाना प्रयत्नेनापादयितुं शक्यते केनापि तस्य स्थायित्वम् । तस्मात् वस्तुगतं सौन्दर्यं केवलं प्रतीतिमात्रम् । यच्च केवलं प्रतीयते न तत्प्राप्यते यच्च नित्यं प्राप्तं तत्त्ववं परमरमणीयं तदर्थञ्च न क्रियते यत्नः केनाद्रपि, न वा दीयते ध्यानं तदुपरि तस्मात् सौन्दर्यमात्मगतमेव निश्चितम् ।
आत्मनः स्वरूपम् – सत् – चित् – आनन्दात्मकं सौन्दर्यात्मकं वा तदीयां सत्तामादायैव संसारस्य सर्ववस्तूनि सत्तावन्ति । तदीयचेतनतयैव अचेतनान्यपि भासन्ते चेतनवत् । एवमेव तदीयेनानन्देन सौन्दर्येण च निखिलवस्तूनि आनन्दमयानि, सुन्दराणि च सन्तीति विकल्पातीतोद्रर्थः । महात्मना तुलसीदासेनाप्येवमेवाक्तम् – स्वयं सुन्दरताद्रपि तत एव सौन्दर्यमादाय सुन्दरता पदभाक् भवति ।
अनेन विवेचनेनेदं निश्चितं यत् सौन्दर्यमात्मनिष्ठं तत्त्ववं न तु वस्तुनिष्ठम् । परन्तु स्वीकारे चैवमेषा शङ्कासमुदेति यदस्यां स्थितौ कालिदाससदृशैः कविवरैः रूपसौन्दर्यं कथं चित्रितमिति ? किन्तु नैषा शङ्का युक्ता, यतो हि अस्मिन् वैचित्त्वयोपेते संसारे यत् किमप्यानन्दादिकं प्रतीयते यत् किमपि सुन्दरादिकं वा पर्यालोक्यते तत्सर्वं सिन्धोर्विन्दुरिव तस्यैवाखण्डस्यानन्तस्यानन्दसुधासिन्धोः किं वा सौन्दर्यसारसर्वस्वस्यांशिकी अभिव्यक्तिमात्रम् । एवञ्च गुडजिह्वकान्यायेन लौकिकवस्तूूनां सौन्दर्यनिरूपणमपि सर्वथैवौचित्यमञ्चति । अतः कालिदासप्रभृतीनां प्राकृतिकसौन्दर्यचित्रणं मानवीयसौन्दर्यचित्रणं वा सार्थकमेवेति वेदनीयम् । नात्र विस्मर्तव्यं यत् – ब्राह्मणः सच्चिदानन्दस्वरूपस्यानन्दांशमादाय किं वा सत्यं शिवं सुन्दरमिति तत्त्वत्रयमध्ये सौन्दर्यतत्त्वमादायैव कवयन्ति कवयः । आनन्दो निजस्वरूपम्, किंवा सौन्दर्यमेवेति स्वकीयं रूपमिति सर्वेषां सचेतसां तत्र स्वभाविकी प्रवृत्तिः । अतः उच्यते—
रसौ वै सः । रसं लब्ध्वा ह्येवायं आनन्दीभवति ।
कविराजविश्वनाथमहोदयेन एवमेव रसस्य स्वरूप—कथन—गर्भरूपास्वादन—प्रकार—निरूपणावसरे प्रतिपादितम् ।
रसे सारश्चमत्कारः सर्वत्राद्रप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राद्रप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ।
तस्मात् सौन्दर्यं न चक्षुर्विषयः किन्त्वनुभूतिर्विषयः । बाह्यसौन्दर्यं दृष्ट्वा तद्भावनाभावितान्तःकरणः पुरुष आत्मनिष्ठं सौन्दर्यमास्वाद्य सुखीभवतीति कवीनामत्रैव कवित्वम् । अस्माकमन्तः सत्तायास्तदाकारपरिणतिरेव सौन्दर्यानुभूतिः । यस्य सौन्दर्यस्य भावनायां मग्नो मानवो विस्मरति स्वकीय पृथक् प्रतीतिं तदेव सौन्दर्यपदभाक् । नान्यदिति सहृदयानामाकूतम् ।
विवेचनेनेदमायातं यत् सौन्दर्यं द्विविधम् — बाह्यम् आभ्यान्तरञ्च, बाह्सौन्दर्यमान्तरिकसौन्दर्यस्य द्वारमिति कृत्वा आलङ्कारिकैः चित्रितानि बाह्यसौन्दर्याणि ।
शब्दार्थयोर्यत्साहित्यं तच्च सौन्दर्यमन्तरा चमत्काराधायकं न भवतीति कृत्वा किं सौन्दर्यस्य सुन्दरत्वगुणस्याधायकमासमन्तादाधारकं चेद् यदि काव्यञ्च तत्साहित्यं काव्यस्य साहित्यं वा प्रतिष्ठितं प्रतिष्ठामधिगतं प्रतिष्ठायां स्थिरीकृतं वा सौन्दर्यतत्त्वविद्भिः काव्यसाहित्यविद्भिरिति । तस्मात्काव्यसाहित्यादन्यदितरत् निखिलं वेदस्मृतिपुराणादिकं शासनाच्छास्त्रमित्यभिधीयमानं किमग्राह्यम् ? श्रवणमननध्ययनानर्हमनुपादेयमनावश्यकं वा ? किं वा तस्मात्काव्यसाहित्यादतिरित्तंm सर्वं वेदादिशास्त्रं पौरुषेयापौरुषेयमसुन्दरम् ? सुन्दरत्व—गुणहीनमाह्लाद—जनकत्वाभावादनावर्जकमनुपयुज्यमानं वा स्यादिति ।
कथ्यते च यत्—
सौन्दर्याधायकं काव्य – साहित्यं चेत्प्रतिष्ठितम् ।
तदन्यन्निखिलं शास्त्रं किमग्राह्यमसुन्दरम् ।।
नैतदूह्यं यतश्शास्त्रोच्चयस्तत्त्वप्रमाणकः ।
काव्यसाहित्यमेकान्तं सौन्दर्यज्ञानसाधकम् ।।
एतत्काव्यसाहित्येतरदन्त्यन्निखिलं शास्त्रमग्राह्यमसुन्दरमिति नोह्यम्, न वितक्र्यं न शङ्क्यमिति । यतश्च हेतोः शास्त्राणां वेदस्मृत्यागमपुराणप्रभृतीनामुच्चय समूहो वा, तत्त्ववं निगूूढं रहस्यं पारमार्थिकं स्वरूपं वा प्रमाणयतीति तत्त्वप्रमाणकः परमात्मतत्त्वबोधकः, अध्यात्मदिक् उन्मीलक आत्मानात्मभेदनिरूपको निःश्रेयससाधको वा निरूपितः परमतत्त्वदर्शिभिः शास्त्रकृद्भिरिति । काव्यसाहित्यं तुु शब्दार्थसहभावसंवलितं सदेकान्तं कैवल्येनातिशयमात्यन्तिकमनिवार्यतया च सौन्दर्यानुभूति साधकं सुन्दरत्वगुणबोधसाधनभूतं सौन्दर्यतत्त्वतिरूपणात्प्रतिष्ठापितं काव्यसाहित्यमर्मज्ञैः सुधीभिरिति ।
काव्यशास्त्रस्यापरनामसाहित्यमिति संज्ञितम् । क्रश्चित् साहित्यमर्मज्ञैरुक्तम् —
साहित्यं किञ्च सौन्दर्यं द्वयमन्योन्यपूरकम् ।
एकमन्यद् विना नैव प्रतिष्ठां लभतेतराम् ।।
साहित्यं सौष्ठवेन समुृचितशब्दार्थसहभावभावितं काव्यात्मकं सत् किञ्चेत्युभयानुक्रमबोधार्थम् । सौन्दर्यं सुन्दरैकदेशित्वात्सुत्दरत्वगुणः, द्वयमुभयं साहित्यं सौन्दर्यञ्चेति, अन्योन्यपूरकमन्यदन्यदित्यन्योन्यं पूरयति पूर्णं करोतीति पूरकं परस्परोपकारकत्वेन सहायकमुन्नायकमिति यावत् । एकमिति साहित्यं सौन्दर्यं वा, अन्यस्मात्पृथग्भूतसहायमनुपकृतं वा, अन्यद् विना साहित्यं सौन्दर्यमन्तरा, सौन्दर्यञ्च साहित्यमन्तरा, प्रतिष्ठां प्रकृष्टं स्थितिमुच्चतमां सम्मानभूमिं नैव लभतेतरां ध्रुवमेव न प्राप्नोति, अर्थात् साहित्योपस्कृतं सौन्दर्यं सौन्दर्यानुप्राणितं साहित्यं न लोकेद्रस्मिन् प्रतिष्ठां प्राप्नुतः ।
एवमत्र निश्चीयते यत् – साहित्यं किं वा सौन्दर्यंं द्वयमन्योन्यपूरकं भवतः ।
(क) आभ्यान्तरसौन्दर्याधायकत्वम्
काव्यश्रवणपठनपश्चात् काव्यरसिकानां हृदये शनैः शनैः काव्यात्मस्थानीभूतं तत्त्ववं प्रकटीभवति, तदेव तत्त्ववं काव्यस्याभ्यान्तरसौन्दर्यत्वेन स्वीक्रियते । काव्यशास्त्रीयेतिहासे ध्वनिसम्प्रदायस्य स्थापनापश्चात् काव्यस्याभ्यान्तरसौन्दर्यस्य महत्त्ववं स्थापितम् । ध्वनिकारः अस्य विषये कथयति यत्—
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ।।
अङ्गनासु लावण्यमिव प्रतिभावतां महाकवीनां काव्येषु सामान्येतर दिव्यसौन्दर्यात्मकार्थो भवति । अर्थात् लोके नायिकासु सर्वाङ्गसमन्वयेनाविष्कृतं प्रत्यक्षसौन्दर्यातिरिक्तमनुवभसिद्धं लावण्यं भवति, तथैव काव्यशरीरेद्रपि गुणालङ्कारादिप्रत्यक्षसौन्दर्यातिरिक्तं कमप्यनिर्वचनीयमनुभवसिद्धं सौन्दर्यमनुभूयते, तदेव काव्यस्याभ्यान्तरसौन्दर्यरूपेण गृह्यते ।
तथा च पण्डितराजोद्रपि काव्यस्याभ्यान्तरसौन्दर्यविषये काव्यस्वरूपे एव सूचयति, यथा—
रमणीयार्थप्रतिपादकशब्दः काव्यम्
रमणीयार्थ अर्थात् सौन्दर्यपूर्णार्थ एव काव्यं भवति । अत्र रमणीयार्थेन प्रतीयमानार्थसङ्केतितत्वात् आभ्यान्तरसौन्दर्यमेव सूचितम् ।
वाग्देवतावताराचार्यमम्मटेनोक्तम्—
सर्वेषां प्रायशोद्रर्थानां व्यञ्जकत्वमपीष्यते ।
अत्र वाच्य – लक्ष – व्यङ्गयानामर्थानामपि प्रायशो सौन्दर्यरूपव्यञ्जकत्वमिष्यते इति ।
वक्तृवैशिष्ट्यात् व्यञ्जकत्वरूपसौन्दर्यस्य प्रतीतिः, यथा—
मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया ।
तद्भण किं करणीयमेवमेव न वासरः स्थायी ।।
अत्रोपनायकसङ्गमार्थिन्याः कस्याश्चित् अन्नेन्धनाद्यानयनव्याजेन रमाणार्थं वहिर्गन्तुं मातरं प्रति कियत् सुन्दरमुक्तिरियम् ।
अत्र व्यभिचारिण्या उक्तिभिः स्वैरविहारार्थनीयमिति सुन्दरार्थस्य प्रतीतिर्भवति । व्यभिचारिणी सुन्दरयुक्तिरूपवक्तृसम्बन्धात्स्वैरविहारार्थिनी एषेति सामाजिकैव्र्यञ्जनया बुध्यते ।
रसध्वनिसौन्दर्यं यथा—
शयिता सविधेद्रप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीषते ।।
अत्र नायिकानिष्ठा नायकविषयिणी रतिः ।
रह एकान्तम्, तथा च यदि स्थानमेकान्तं न स्यात् तदा सापित्रपारवश्यात् तत्र नायकस्य समीपे कथमपि न शयितेति नायकसमीपशयनान्यथाद्रनुपपत्त्वया तत्थानस्यैकान्तत्वं कल्यते । निरीक्षणे तादृशत्वमीषन्मुकुलीकृतनेत्रकत्वम् । नयनयोरीषन्मीलनेन लज्जा, निरीक्षणेन चौत्सुक्यं सूच्यते । संभोग – आलम्बनादिभिः सह स्थायिभावस्य रत्यादेः सम्बन्धः । रतिश्चात्र नायकालम्बना नायिकाश्रया, तस्याश्चेह परिपोषणेन निरीक्षणस्य च प्रवृत्तत्वेन सम्भोगशृङ्गाररसरूपतामभिव्यक्तिः ।
अत्र नायिकानिष्ठरत्यादेः स्थायिभावस्य नायकरूपालम्वनविभावेन, एकान्तस्थानरूपोद्दीपनविभावेन, मुकुलीकृतनयननिरीक्षणलक्षणानुभावेन, लज्जौत्सुक्यरूपाभ्यां व्यभिचारिभावाभ्यां च सम्बन्धात् प्राधान्येन सम्भोगशृङ्गाररसास्वादः सुतरां सामाजिकेषु व्यज्यते । एष्वुदाहरणेष्वाभ्यान्तरसौन्दर्याधायकत्वं परिज्ञानायानुभव एव प्रमाणं तत्र केवलं सचेतसां सहृदयानां, सामाजिकानाञ्चेति ।
(ख) बाह्यसौन्दर्याधायकत्वम्
काव्यपठनश्रवणसमकालमेव पाठकश्रोतृजनानां मनः विकासयन्ति तानि सर्वाणि काव्यस्य बाह्यतत्त्वदीनि बाह्यसौन्दर्यवर्धकानीति वत्तुंm युज्यते । तत्र काव्यपरिशीलने माधुर्यादयः गुणाः, उपमादयः अलङ्काराः, वैदभ्र्यादयः रीतयश्च तात्कालिकानन्दं जनयन्ति, अत एते काव्यस्य बाह्यसौन्दर्यप्रदायकाः मन्यन्ते । भामहस्य न कान्तमपि निर्भूषं विभाति वनितामुखम्, वामनस्य सौन्दयमलङ्कारः, काव्यशोभायाः कत्र्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्काराः, दण्डिनः काव्यशोभाकरान् धर्मान्नलङ्कारान् प्रचक्षते इत्यादीनि सिद्धान्तवचनानि काव्यस्य बाह्यसौन्दर्यमेव स्थिरीकुर्वन्ति । तथापि अलङ्कारवादीनां मते त्वलङ्कार एव काव्यस्य सर्वस्वम् अर्थात् बाह्यान्तरिकतत्त्वम् मन्यते परं रसध्वनिवादीनां तार्किकप्रमाणद्वारा तेषां विचारः काव्यस्य बाह्यसौन्दर्यसाधकत्वेन स्थिरीभूतः ।
अलङ्कारस्वरूपम् :
उपकुर्वन्ति तं सन्तं येद्रङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेद्रनुप्रासोपमादयः ।।
ये धर्मा अङ्गद्वारेण अङ्गिनो रसस्याङ्गभूतौ शब्दार्थौ तद्द्वारेण तदुत्कर्षजनमुखेन तमङ्गिनं रसं सन्तं सम्भविनं कदाचित् तु न नियमेन उपकुर्वन्ति उत्कर्षयन्ति ते धर्मा अनुप्रासोद्रपमादयोद्रलङ्कारा हारादिवत् यथा कण्ठाद्यङ्गोत्कर्षद्वारेण शरीरिणोद्रप्युपकारका हारादयोद्रलङ्कारा इति ।
तत्र शब्दद्वारेण रसोपकारकत्वमलङ्कारस्य यथा—
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालिमृणालैरिति वदति दिवानिशं बाला ।।
अत्र रेफानुप्रासः शब्दमलङ्कुर्वन् विप्रलम्भशृङ्गारमुपकरोति । रेफस्य शृङ्गारव्यञ्जकत्वात् – वाचकमुखेन शब्दद्वारेण अनुप्रासस्य शब्दालङ्कारत्वात् ।
अर्थद्वारेण रसोपकारकत्वमलङ्कारस्य यथा—
मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ।।
अत्र विषमिवेत्यादिरुपमा, सा चार्थमलङ्कुर्वाणा रसमुत्कर्षयति । विषमिवेत्युपमावशेन विसर्पणाद्रतिशयप्राप्त्या विप्रलम्भोत्कर्षात्तदेवोक्तं यत् वाच्यमुखेन अर्थद्वारेण उपमाया अर्थालङ्कारत्वात् ।
मानवमनसः स्वभाव एव यत् यस्य कस्यापि वस्तुनः सौन्दर्यं प्रति समाकर्षितं भवति । यथा बालानां मनः सुन्दरं क्रीडनकं प्रति गच्छति, यौवनेनाक्रन्तजनानामन्तस्करणं कलासौन्दर्यम्, विपरीतलिङ्गीजनसौन्दर्यम् वा समाकृष्टं भवति । तथा च वृद्धानां मनः भगवत्कथासौन्दयश्रवणार्थं प्रसरति । तथैव काव्यसंसारेद्रपि रसिकजनमनः काव्यसौन्दर्यमेवाभिलषति । यस्मिन् काव्ये बाह्याभ्यान्तरसौन्दर्येण सुसज्जितं विषयवस्तु नास्ति, तत्र तेषां कृते निरुत्साहं जनयति । काव्यस्य पठनश्रवणसमकालमेव सौन्दर्यचमत्काराभिव्यक्तिर्भवति, तत् बाह्यसौन्दर्यम्, यथा— गुणालङ्कारादि, तथा च काव्यस्याध्ययनमननचिन्तनपश्चात् लोकातिक्रान्तगोचरं सच्चिदानन्दस्वरूपम्, सहृदयहृदयसंवेद्यं तत्त्वमेवाभ्यान्तरसौन्दर्यमिति कथ्यते, यथा—
ध्वनिरसादि । अतः काव्ये ध्वनिरसादिरूपमाभ्यान्तरसौन्दर्यम्, गुणालङ्काररीत्यादिरूपं बाह्यसौन्दर्यञ्चावश्यकमेव ।
ΩΩΩ
१. आचार्यः भरतमुनिः (सन् १९६४) नाट्यशास्त्रम्, वाराणसीः मोतिलाल बनारसी दासः ।
२. आचार्यः मम्मटः (सन् १९८३) काव्यप्रकाशः, मेरठः साहित्यभण्डारः ।
३. आचार्यः आनन्दवर्धनः (सं.२०४२) ध्वन्यालोकः, वाराणसीः चौखम्बा संस्कृत भवन ।
४. आचार्यः वामनः (सं. २०४७) काव्यालङ्कारसूत्राणि, वाराणसीः चौखम्बा संस्कृत संस्थान ।
५. आचार्यः भामहः (सं.२०३८) काव्यालङ्कारः, वाराणसीः चौखम्बा संस्कृत संस्थान ।
६. आचार्यः विश्वनाथ, (सन् १९९५) साहित्यदर्पण, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
७. भट्टाचार्य कान्तिचन्द्र : (वि.सं.२०५७) काव्यदीपिका, (टी.प्रा.डा. वेणीमाधव ढकाल) काठमाडौं :श्रीमती प्रभालक्ष्मी राणा ।
८. दीक्षित अप्पय, (सन् १९९७) कुवलयानन्द, वाराणसी : चौखम्बा विद्याभवन ।
-पिण्डेश्वर विद्यापीठ, धरानका गुरुप्रसाद कोइराला
(स्रोत : साहित्यघर ब्लग )