~निर्मोही व्यास~
प्रेम सृष्टेः परं सारमेकं महत्
प्रेमसिंहासने राजितोऽयं जगत्
इन्दुना सार्धमाह्लादिता चन्द्रिका
भ्राजिता वारिवाहेन सौदामिनी
अम्बरश्चुम्बति क्वापि नूनं धरां
रागिणी यत्र त्तत्रैव वीणा–ध्वनिः
शक्यते निश्चयं यद्धि प्रेम्णा परं
खड्गधारैश्शतैर्नैव तच्छक्यते
प्रेम्णि प्राप्तेरप्राप्तेश्च वार्ता वृथा
चन्द्रमालोक्य मुग्धश्चकोरस्सदा
ईदृशी शोभना वर्तते मेदिनी
तस्य प्रेमैव मूलं भवेत् कारणम््
रोषतोषावुभौ प्रेम्णि चावश्यकौ
निश्छलौ निर्मलौ वाञ्छनीयौ च तौ
विद्यते प्रेमशास्त्रेऽखिलं स्वीकृतं
नैव किञ्चिन्निषिद्धं सदा सृष्टितः
प्रीति–सङ्गीतकस्यासि त्वं मूच्र्छना
प्रीति–वंशी तथैवास्म्यहं निश्चयम्
संस्मृतेः दीपमैकान्तिकं ज्वालयन्
सर्वदैवारणन् त्वाहमाराधये
जीवनं प्राणिनां प्रेम्णि चाधारितं
नैव लाभे जये वाऽथ हानौ क्षये
कामये नैव चाहं जयं वाऽजयं
कामये सर्वदाऽहं तु प्रीतिं तव
त्वं हि रुष्टा भवेः नूनमेव प्रिये !
किन्तु रोषो भवेत् सर्वथा कृत्रिमः
त्वं हि तुष्टा भवेः नूनमेव प्रिये !
किन्तु तोषो भवेत् सर्वथाऽकृत्रिमः