शरदा ज्योत्स्नया कान्ता वसन्तेन सुशोभिता
चञ्चला चञ्चला चैव स्मिता भीता समाहिता ।
त्वमेका मृदुवाक्येन कोकिलानाञ्च कोकिला
प्रकृत्यैव नता धीरा स्वभावेन शकुन्तला ।
मृदुला कोमलारूपा वासन्ती कुसुमाधरा
मानिनी मम मैत्रेयी प्रज्ञानेन मनोहरा ।
मन्दाक्रान्तोस्म्यहं प्रेम्णे प्रेमाक्रान्तञ्च ते मन :
मनसा चात्मना नम्रा त्वमेका मम नायिका ।
नरेन्द्र पराशर
(स्रोत : Narendra Parasar’s Blog)